चण्डालः शतजन्मानि भारते सूकरो भवेत्
व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि
ग्रामं वा नगरं वाऽपि दाहनं यः करोति च
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमेन्महीम्
ततो भवेन्महाशूली मानवः सप्तजन्मसु
परकर्णोपजापेन परनिन्दां करोति यः
सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम्
वज्रकीटः सप्तजनौ भस्मकीटस्ततः परम्
गृहिणां च गृहं भित्त्वा वस्तुतेयं करोति यः
ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः 2.30.
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम्
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा
ताडितो यमदूतेन गजदन्तेन सन्ततम् गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः
जलं पिबन्तीं तृषितां गां वारयति यो नरः
नरकं गोमुखाकारं कृमितप्तोदकान्वितम्
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम्
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः
गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः 2.30.
कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश
क्षणं पतति वह्नौ च क्षणं पतति कण्टके
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः
काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु
ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः
सावित्र्युवाच का वा नृणामगम्या वा को वा सन्ध्याविहीनकः
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः
यम उवाच शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा
गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि 2.30.