ततो रक्तविकारी च शूली वै मानवो भवेत्
रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः
स भवेदश्वजातिश्च भारते सप्तजन्मसु
पुंश्चल्यन्नं च यो भुंक्ते पुंश्चलीजीव्यजीवनः
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि
धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः
शताब्दं तत्र निवसेद्यमदूतेन ताडितः 2.30.
ततो भवेन्मानवश्च कासव्याधियुतो भुवि
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः
ततो भवेत्स वक्रांगो हीनाङ्गः सप्तजन्मसु
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति
ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः
सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा 2.30.
वसेद्दुर्गन्धकुंडे च दुर्गन्धं च लभेत्सदा
दुर्गंधिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि
बलेनैव खलत्वेन हिंसारूपेण वा सति
स वसेत्तप्तशूले च भवेत्ततो दिवानिशम्
भस्मसान्न भवत्येव भोगदेहो न नश्यति
शब्दं करोत्यनाहारो यमदूतेन ताडितः
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः
छिनत्ति जीविनः खङ्गैर्दयाहीनः सुदारुणः
असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश
छिन्नाङ्गश्च भवेत्पापी खङ्गधारेण सन्ततम् 2.30.