कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च
ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम्
वक्षः श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः
स वसेत्काककुण्डं च काकैश्च क्षुण्णलोचनः
सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी
यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि
तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः
भारते देवचौरश्च देवद्रव्यादिहारकः
देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत्
त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि 2.30.
ततो रक्तविकारी च शूली वै मानवो भवेत्
रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः
स भवेदश्वजातिश्च भारते सप्तजन्मसु
पुंश्चल्यन्नं च यो भुंक्ते पुंश्चलीजीव्यजीवनः
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि
धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः
शताब्दं तत्र निवसेद्यमदूतेन ताडितः 2.30.
ततो भवेन्मानवश्च कासव्याधियुतो भुवि
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः
ततो भवेत्स वक्रांगो हीनाङ्गः सप्तजन्मसु
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति
ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः
सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा 2.30.