यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा 2.30.
ताडिता यमदूतेन दण्डेन च चतुर्युगम्
विषेण जीविनं हन्ति निर्दयो यो हि पामरः
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम्
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा
ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः
यो भुंक्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः 2.30.
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते
ततो भारतमागत्य स शूद्रः सप्तजन्मसु
लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः
सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत्
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता
यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः 2.30.
दण्डं करोत्यदंड्ये च विप्रे दण्डं करोति च
तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम्
अर्थलोभेन यो भूपः प्रजादण्डं करोति च
ततो वृश्चिकजातिश्च सप्तजन्मसु जायते
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत्
स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु
कारागारे सान्धकारे निबध्नाति प्रजाश्च यः
तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम्