वत्स वैष्णवसंसर्गाद्वैष्णवोच्छिष्टभोजनात्
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम्
ब्रह्मेत्युक्त्वा सुतं विप्र विरराम जगत्पतिः
नारद उवाच स्रष्टुस्तपस्वीशस्याहो क्रोधोऽयं मय्यनाकरः ।। 1.8.
शपेत्परित्यजेद्विद्वान्पुत्रमुत्पथगामिनम्
जनिर्भवतु मे ब्रह्मन्यासु यासु च योनिषु
पुत्रश्चेज्जगतां धातुर्नास्ति भक्तिर्हरेः पदे
जातिस्मरो हरेर्भक्तियुक्तः सूकरयोनिषु
गोविन्दचरणाम्भोजभक्तिमाध्वीकमीप्सितम्
तीर्थानि स्पर्शमिच्छन्ति वैष्णवानां पितामह
मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा
यो दर्शयत्यसन्मार्गं शिष्यैर्विश्वासितो गुरुः 1.8.
स किंगुरुः स किंतातः स किंस्वामी स किंसुतः
शप्तो निरपराधेन त्वयाऽहं चतुरानन
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः
उपबर्हेण गन्धर्वो नारदस्तेन हेतुना
ततः पुनर्नारदश्च स बभूव महानृषिः
सौतिरुवाच सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ
आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम्
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश