व्रतानामुपवासानां श्राद्धादीनां च संयमे
स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि
सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते 2.30.
तदन्ते यावनीं योनिं प्रयाति हरकोपतः
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च
ततः स्वयोनिं संप्राप्य खञ्जः सप्तसु जन्मसु
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम्
अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च
स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु
यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत्
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा 2.30.
ताडिता यमदूतेन दण्डेन च चतुर्युगम्
विषेण जीविनं हन्ति निर्दयो यो हि पामरः
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम्
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा
ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः
यो भुंक्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः 2.30.
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते
ततो भारतमागत्य स शूद्रः सप्तजन्मसु
लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः
सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत्
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता