स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति
परकीयतडागे च तडागं यः करोति च 2.30.
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत्
पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम्
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः
यानि कानि च पापानि ब्रह्महत्यादिकानि च
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ।।2.30.
पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत्
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते
अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम्
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम्
करोति खलतां शश्वदशुद्धहृदयो नरः
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि
बधिरं यो हसत्येव निन्दत्येव हि मानवः
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।। 2.30.
लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः
ततो भवेत्स शशको मीनश्च सप्तजन्मसु
स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति
मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु
सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु