स्वधर्म्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने यमसावित्रीसंवादे नरककुण्डसंख्यानं नामैकोनत्रिंशो ऽध्यायः
2.30 यम उवाच तपस्वी ब्रह्मचारी च न याति नरकं यतिः
कटुवाचा बान्धवांश्च खलत्वेन च यो नरः
गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने
ब्राह्मणं तृषितं क्षुब्धं प्रतप्तं गृहमागतम्
तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः
रविवारार्कसंक्रान्त्याममायां श्राद्धवासरे
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति
परकीयतडागे च तडागं यः करोति च 2.30.
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत्
पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम्
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः
यानि कानि च पापानि ब्रह्महत्यादिकानि च
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ।।2.30.
पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत्
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते
अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम्
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम्
करोति खलतां शश्वदशुद्धहृदयो नरः