यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्
महापापी यदि पठेन्नित्यं भक्त्या च नारद
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्रीकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः
श्रीनारायण उवाच कर्म्माशुभविपाकं च तामुवाच रवेः सुतः
यम उवाच कर्माशुभविपाकं च कथयामि निशामय
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा
नरकाणां च कुण्डानि सन्ति नानाविधानि च
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम्
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च
वह्निकुण्डं तप्तकुण्डं क्षमकुण्डं भयानकम्
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् 2.29.
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम्
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम्
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम्
शरकुण्डं शूलकुण्ड खड्गकुण्डं च भीषणम्
सञ्चालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम्
लालाकुण्डमसिकुण्डं चूर्णकुण्डं सुदारुणम्
ज्वालकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि
गोधामुखं नक्रमुखं गजदंशं च गोमुखम्
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम्
जालबन्धं देहचूर्णं दलनं शोषणङ्करम् 2.29.
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च
दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयङ्करैः
तमोयुक्तैर्दयाहीनैर्दुर्निवार्य्यं च सर्वतः
योगयुक्तैः सिद्धयोगैर्नानारूपधरैर्वरैः
स्वकर्मनिरतैः शैवैः शाक्तैः सौरैश्च गाणपैः