भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम्
शुभकर्म्मविपाकं च श्रुतं नृणां मनोहरम्
इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकन्धरा
सावित्र्युवाच धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम्
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् 2.28.
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे
विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम्
तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः
स्वात्मारामञ्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्
महापापी यदि पठेन्नित्यं भक्त्या च नारद
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्रीकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः
श्रीनारायण उवाच कर्म्माशुभविपाकं च तामुवाच रवेः सुतः
यम उवाच कर्माशुभविपाकं च कथयामि निशामय
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा
नरकाणां च कुण्डानि सन्ति नानाविधानि च
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम्
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च
वह्निकुण्डं तप्तकुण्डं क्षमकुण्डं भयानकम्
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् 2.29.
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम्
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम्
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम्
शरकुण्डं शूलकुण्ड खड्गकुण्डं च भीषणम्
सञ्चालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम्