पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च
चतुर्गुणं राजसूये फलमाप्नोति मानवः 2.27.
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम्
विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत्
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि
बभूव कलहो यत्र दक्षशङ्करयोः सति
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा
राजसूयसहस्राणां फलमाप्नोति निश्चितम् 2.27.
बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम्
देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः
तीर्थानां च यथा गङ्गा पवित्राणां च वैष्णवाः
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा
शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः
वृन्दावनं वनानां च वर्षाणां भारतं यथा
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका
अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम्
पाठश्चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा 2.27.
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्त्तनम्
तत्पादोदकनैवेद्यभक्षणं नित्यमेव च
भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम्
एतत्ते कथितं सर्वं विपाकं कर्मणां नृणाम्
श्रीनारायण उवाच साश्रुनेत्रा सपुलका यमं पुनरुवाच सा
सावित्र्युवाच श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम्
दानानां च व्रतानां च सिद्धीनां तपसां परम्
मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा