ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत्
पुनर्महीं समागत्य श्रीमानतुलविक्रमः 2.27.
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम्
महीयते स वैकुण्ठे यावद्ब्रह्मदिवानिशम्
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी
भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते
ततः पुनरिहागत्य स सुखी धनवान्भवेत्
यो वक्ति वा ददात्येव हरेर्नामानि भारते
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम्
नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् 2.27.
लभते न पुनर्जन्म वैकुण्ठे स महीयते
यः शिवं पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम्
मृदां रेणुप्रमाणाब्दं शिवलोके महीयते
शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम्
तपांसि चैव सर्वाणि व्रतानि निखिलानि च
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत्
यः स्नाति सर्वर्तीर्थेषु भुवि कृत्वा प्रदक्षिणम्
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च
चतुर्गुणं राजसूये फलमाप्नोति मानवः 2.27.
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम्
विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत्
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि
बभूव कलहो यत्र दक्षशङ्करयोः सति
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः