पुनः स्वयोनिं संप्राप्य तपस्विप्रवरो भवेत्
मीनकर्कटयोर्मध्ये गाढं तपति भास्करे
मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश 2.27.
वैशाखे हरये भक्त्या यो ददाति च चन्दनम् पुनः स्वयोनिं संप्राप्य रूपवांश्च सुखी भवेत्
वैशाखे सक्तुदानं च यः करोति द्विजातये
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम्
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश
इहैव भारते वर्षे शिवरात्रिं करोति यः
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः
पुनः स्वयोनिं संप्राप्य शिवभक्तिं लभेद्ध्रुवम्
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती
श्रीरामनवमीं यो हि करोति भारते नरः 2.27.
पुनः स्वयोनिं संप्राप्य रामभक्तिं लभेद्ध्रुवम्
शारदीयां महापूजां प्रकृतेर्यः करोति च
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि
अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्द्धिनीम्
राजराजेश्वरः सोऽपि भवेदेव न संशयः
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते
वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम्
शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह 2.27.
गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि
तत्र कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत्
शुक्लां वाऽप्यथवा कृष्णां करोत्येकादशीं च यः
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम्
भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः
रविवारेऽर्कसंक्रान्त्यां सप्तम्यां शुक्लपक्षतः
महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ