महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम्
तं न त्यजति भूमिश्च जन्मनां शतकं परम्
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये
पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् 2.27.
सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम्
नगरं यश्च विप्राय ददाति भारते भुवि
पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत्
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम्
नगराणां च शतकं देशं यो हि द्विजातये
वापीतडागसंयुक्तं नानावृक्षसमन्वितम्
पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत्
मही तं न जहात्येव जन्मनां कोटिमेव च
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते 2.27.
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च
असंख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च
कार्त्तिके तुलसीदानं करोति हरये च यः
पुनः स्वयोनिं संप्राप्य हरिभक्तिं लभेद्ध्रुवम्
घृतप्रदीपं हरये कार्त्तिके यो ददाति च
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् 2.27.
माघे यः स्नाति गङ्गायामरुणोदयकालतः
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम्
माघे यः स्नाति गंगायां प्रयागे चारुणोदये
पुनः स्वयोनिं संप्राप्य विष्णुमन्त्रं लभेद्ध्रुवम्
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले
नित्यस्नायी च गङ्गायां स पूतः सूर्य्यवद्भुवि
तस्यैव पादरजसा सद्यः पूता वसुन्धरा