हरिर्ब्राह्मणरूपेक्षण शश्वद् भ्रमति भूतले
भगवन्यत्त्वया पृष्टं ज्ञातं सर्वमभीप्सितम्
पुराणोपपुराणानां वेदानां भ्रमभञ्जनम्
कामिनां कामदं चेदं मुमुक्षूणां च मोक्षदम्
ब्रह्मखण्डं सर्वबीजं परब्रह्मनिरूपणम्
वैष्णवा योगिनः सन्तो न च भिन्नाश्च शौनक
सन्तो भवन्ति सत्सङ्गाद्योगिसंगेन योगिनः
यत्रोद्भवश्च देवानां देवीनां सर्वजीविनाम्
जीवकर्मविपाकश्च शालिग्रामनिरूपणम्
प्रकृतेर्लक्षणं तत्र कलांशानां निरूपणम् 1.1.
सुकृतीनां दुष्कृतीनां यद्यत्स्थानं शुभाशुभम्
ततो गणेशखण्डे च तज्जन्म परिकीर्तितम्
गणेशभृगुसंवादे सर्वतत्त्वनिरूपणम्
श्रीकृष्णजन्मखण्डं च कीर्तितं च ततः परम्
भुवो भारावतरणं क्रीडाकौतुकमङ्गलम्
इदं ते कथितं विप्र पुराणप्रवरं परम्
सर्वेषामीप्सितं श्रीदं सर्वाशापूर्णकारणम्
सारभूतं पुराणेषु केवलं वेदसंमितम्
ब्रह्मवैवर्तकं तेन प्रवदन्ति पुराविदः
निरामये च गोलोके कृष्णेन परमात्मना 1.1.
धर्मेण दत्तं पुत्राय प्रीत्या नारायणाय च
नारदो व्यासदेवाय प्रददौ जाह्नवीतटे
मह्यं ददौ सिद्धक्षेत्रे पुण्यदेशे मनोहरम्
अष्टादशसहस्रं तु व्यासेनेदं पुराणकम् तत्फलं लभते नूनमध्यायश्रवणेन च
शौनक उवाच सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम्
सौतिरुवाच हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान्
यच्छ्रुतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम्
ज्योतिःसमूहं प्रलये पुराऽऽसीत्केवलं द्विज
स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत्
तेषामुपरि गोलोकं नित्यमीश्वरवद् द्विज