सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश
ततो गन्धर्वलोके च वर्षाणामयुतं सति
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् 2.27.
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः
पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम्
केवलं फलदानं च ब्राह्मणाय ददाति यः
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम्
कुबेरलोके वसति स च मन्वन्तरावधि
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति
महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम्
तं न त्यजति भूमिश्च जन्मनां शतकं परम्
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये
पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् 2.27.
सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम्
नगरं यश्च विप्राय ददाति भारते भुवि
पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत्
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम्
नगराणां च शतकं देशं यो हि द्विजातये
वापीतडागसंयुक्तं नानावृक्षसमन्वितम्
पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत्
मही तं न जहात्येव जन्मनां कोटिमेव च
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते 2.27.
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च
असंख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च
कार्त्तिके तुलसीदानं करोति हरये च यः