गां यो ददाति विप्राय भारते भक्तिपूर्वकम्
यश्चोभयमुखीदानं करोति ब्राह्मणाय च
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम्
यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् 2.27.
विप्राय पादुकायुग्मं यो ददाति च भारते
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च
सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम्
करोति गजदानं च यो हि विप्राय भारते
भारते योऽश्वदानं च करोति ब्राह्मणाय च
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च
यो ददाति च विप्राय व्यजनं श्वेतचामरम्
धान्याचलं यो ददाति ब्राह्मणाय च भारते
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी 2.27.
सततं श्रीहरेर्नाम भारते यो जपेन्नरः
यो नरो भारते वर्षे दोलनं कारयेद्धरेः
इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम्
फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत्
तिलदानं ब्राह्मणाय यः करोति च भारते
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश
ततो गन्धर्वलोके च वर्षाणामयुतं सति
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् 2.27.
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः
पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम्
केवलं फलदानं च ब्राह्मणाय ददाति यः
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम्
कुबेरलोके वसति स च मन्वन्तरावधि
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति