अश्वत्थवृक्षमारोप्य प्रतिष्ठां च करोति यः
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये 2.26.
यो ददाति विमानं च विष्णवे भारते सति
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम्
राजमार्गं सौधयुक्तं यः करोति पतिव्रते
ब्राह्मणेभ्योऽपि देवेभ्यो दाने समफलं लभेत्
भुक्त्वा स्वर्गादिकं सौख्यं पुनरायान्ति भारते
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं परम्
क्षत्रियो वाऽपि वैश्यो वा कल्पकोटिशतेन च
स्वधर्मरहिता विप्रा नानायोनिं व्रजन्ति च
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि 2.26.
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि
सावित्र्युवाच मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि
यम उवाच अन्नप्रमाणवर्ष च शक्रलोके महीयते
अन्नदानात्परं दानं न भूतं न भविष्यति
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम्
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम्
गां यो ददाति विप्राय भारते भक्तिपूर्वकम्
यश्चोभयमुखीदानं करोति ब्राह्मणाय च
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम्
यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् 2.27.
विप्राय पादुकायुग्मं यो ददाति च भारते
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च
सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम्
करोति गजदानं च यो हि विप्राय भारते
भारते योऽश्वदानं च करोति ब्राह्मणाय च