ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम्
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च 2.26.
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च
ब्राह्मणाद्वैष्णवादन्ये सकामाः सर्वजन्मसु
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति
स्वधर्मनिरता विप्राः सूर्य्यभक्ताश्च भारते
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः
स्वधर्म्मरहिता विप्रा देवान्यसेविनः सदा
स्वधर्म्मनिरताश्चैवं वर्णाश्चत्वार एव च
स्वधर्म्मरहितास्ते च नरकं यान्ति हि ध्रुवम् 2.26.
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च
वसंति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश
सकामा यांति तल्लोकं न निष्कामाश्च वैष्णवाः
गव्यं च रजतं भार्यां वस्त्रं सस्यं फलं जलम्
वसंति ते च तल्लोकं यावन्मन्वन्तरं सति
ये ददति सुवर्णं च गां च ताम्रादिकं सति
वसन्ति तत्र ते लोके वर्षाणामयुतं सति
ददाति भूमिं विप्रेभ्यो धान्यानि विपुलानि च
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ
गृहं ददंति विप्राय ये जना भक्तिपूर्वकम् 2.26.
गृहरेणुप्रमाणाब्दं दानं पुण्यदिने यदि
यस्मै यस्मै च देवाय यो ददाति गृहं नरः
सौधे चतुर्गुणं पुण्यं पूर्त्ते शतगुणं फलम्
यो ददाति तडागं च सर्वभूताय भारते
वाप्यां फलं शतगुणं प्राप्नोति मानवस्ततः
धनुश्चतुःसहस्रेण दैर्घ्यमानेन निश्चितम्
दशवापीसमा कन्या यदि पात्रे प्रदीयते
तत्फलं च तडागे च पङ्कोद्धारेण तत्फलम्