सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये वृणु देवि महाभागे सर्वं दास्यामि निश्चितम्
सावित्र्युवाच भविष्यति महाभाग वरमेतन्मदीप्सितम् ।। 2.26.
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी
अन्ते सत्यवता सार्द्धं यास्यामि हरिमन्दिरम्
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे
यम उवाच जीवकर्म्मविपाकं च कथयामि निशामय
शुभानामशुभानां च कर्म्मणां जन्म भारते
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः
विशिष्टजीविनः कर्म्म भुञ्जते सर्वयोनिषु
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम्
कर्म्मणा चाशुभेनैव भ्रमन्ति नरकेषु च
निर्वाणरूपा सेवा च कृष्णस्य परमात्मनः 2.26.
दीर्घजीवी च क्षीणायुः सुखी दुःखी च निश्चितम्
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्म्मणा
सुदुर्लभं सुभोग्यं च पुराणेषु श्रुतिष्वपि
दुर्लभा मानवी जातिः सर्वजातिषु भारते
विष्णुभक्तो द्विजश्चैव गरीयान्भारते ततः
सकामश्च प्रधानश्च निष्कामो भक्त एव च
स याति देहं त्यक्ता च पदं विष्णोर्निरामयम्
ये सेवन्ते च द्विभुजं कृष्णमात्मानमीश्वरम्
ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम्
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च 2.26.
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च
ब्राह्मणाद्वैष्णवादन्ये सकामाः सर्वजन्मसु
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति
स्वधर्मनिरता विप्राः सूर्य्यभक्ताश्च भारते
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः
स्वधर्म्मरहिता विप्रा देवान्यसेविनः सदा