सृष्टिं कर्त्तुं महाभागो महाभागवतान्द्विज
चुकोप हेतुना तेन विधाता जगतां पतिः
आविर्भूता ललाटाच्च रुद्रा एकादश प्रभो
सर्वेषामेव विश्वानां स तामस इति स्मृतः 1.8.
गोलोकनाथः कृष्णश्च निर्गुणः प्रकृतेः परः
शुद्धसत्त्वस्वरूपं च निर्मलं वैष्णवाग्रणीम्
महान्महात्मा मतिमान्भीषणश्च भयंकरः
पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः
छायायाः कर्दमो जातो नाभेः पञ्चशिखस्तथा
मरीचिः स्कन्धदेशाच्चैवापान्तरतमा गलात्
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् पितुर्वाक्यं समाकर्ण्य तमुवाच स नारदः
नारद उवाच कारयित्वा दारयुक्तानस्मान्वद जगत्पते
पित्रा ते तपसे युक्ताः संसाराय वयं कथम् 1.8.
कस्मै पुत्राय पीयूषात्परं दत्तं तपोऽधुना
अतीव निम्ने घोरे च भवाब्धौ यः पतेत्पितः
निस्तारबीजं सर्वेषां बीजं च पुरुषोतमम्
भक्तैकशरणं भक्तवत्सलं स्वच्छमेव च
भक्ताराध्यं भक्तसाध्यं विहाय परमेश्वरम्
विहाय कृष्णसेवां च पीयूषादधिकां प्रियाम्
स्वप्नवन्नश्वरं तुच्छमसत्यं मृत्युकारणम्
यथा बडिशमांसं च मत्स्यापातसुखप्रदम्
इत्युक्त्वा नारदस्तत्र विरराम विधेः पुरः
ब्रह्मा कोपपरीतश्च शशाप तनयं द्विज 1.8.
ब्रह्मोवाच क्रीडामृगश्च त्वं साध्यो योषिल्लुब्द्धधश्च लम्पटः
स्थिरयौवनयुक्तानां रूपाढ्यानां मनोहरः
शृङ्गारशास्त्रवेत्ता च महाशृङ्गारलोलुपः
गन्धर्वाणां च सुवरः सुस्वरश्च सुगायनः
प्राज्ञो मधुरवाक् शान्तः सुशीलः सुन्दरः सुधीः
ताभिर्दिव्यं लक्षयुगं विहृत्य निर्जने वने