परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः
इत्येवं कथितं सर्वं मया पृष्टं यथागमम्
सावित्र्युवाच प्रश्नं यद्यत्करोमि त्वां तद्भवान्वक्तुमर्हति
कां कां योनिं याति जीवः कर्मणा केन वा यम
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः
केन वा दीर्घजीवी च केनाल्पायुश्च कर्म्मणा
अङ्गहीनश्च काणश्च बधिरः केन कर्म्मणा
क्षिप्तोऽतिलुब्धकश्चैव केन वा नरघातकः 2.25.
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम्
को वा कं नरकं याति कियन्तं तेषु तिष्ठति
यद्यदस्ति मया पृष्टं तन्मे व्याख्यातुमर्हसि
नारायण उवाच ।। सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः । प्रहस्य वक्तुमारेभे कर्मपाकं च जीविनाम्
यम उवाच ज्ञानं ते पूर्वविदुषां योगिनां ज्ञानिनां परम्
सावित्रीवरदानेन त्वं सावित्रीकला सति
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि
धर्मोरसि यथा मूर्त्तिः शतरूपा मनौ यथा
अदितिः कश्यपे चापि यथाऽहल्या च गौतमे
यथा रतिः कामदेवे यथा स्वाहा हुताशने
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये वृणु देवि महाभागे सर्वं दास्यामि निश्चितम्
सावित्र्युवाच भविष्यति महाभाग वरमेतन्मदीप्सितम् ।। 2.26.
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी
अन्ते सत्यवता सार्द्धं यास्यामि हरिमन्दिरम्
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे
यम उवाच जीवकर्म्मविपाकं च कथयामि निशामय
शुभानामशुभानां च कर्म्मणां जन्म भारते
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः
विशिष्टजीविनः कर्म्म भुञ्जते सर्वयोनिषु
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम्