सावित्र्युवाच कर्म निर्मूलयन्त्येव केन वा साधवो जनाः
कर्मणां बीजरूपः कः को वा कर्म्मफलप्रदः
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च
किं विज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम्
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः
यम उवाच अवैदिकं तु यत्कर्म तदेवाशुभमेव च
अहैतुकी विष्णुसेवा सङ्कल्परहिता सताम्
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम्
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता 2.25.
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः
कर्म्मणो बीजरूपश्च सन्ततं तत्फलप्रदः
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत्सति
आत्मनः प्रतिबिम्बं च देही जीवः स एव च
पृथिवी वायुराकाशो जलं तेजस्तथैव च
कर्त्ता भोक्ता च देही च स्वात्मा भोजयिता सदा
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत्
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम्
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् 2.25.
अङ्गिनामङ्ग रूपं च प्रेरकं सर्वकर्मणाम्
सूर्य्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः
परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः
इत्येवं कथितं सर्वं मया पृष्टं यथागमम्
सावित्र्युवाच प्रश्नं यद्यत्करोमि त्वां तद्भवान्वक्तुमर्हति
कां कां योनिं याति जीवः कर्मणा केन वा यम
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः
केन वा दीर्घजीवी च केनाल्पायुश्च कर्म्मणा
अङ्गहीनश्च काणश्च बधिरः केन कर्म्मणा
क्षिप्तोऽतिलुब्धकश्चैव केन वा नरघातकः 2.25.
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम्