कर्मणा सुन्दरोऽरोगी महारोगी च कर्मणा
कर्मणा नरकं यान्ति जीवाः स्वर्गं स्वकर्मणा 2.24.
कर्मणा चन्द्रलोकं च वह्निलोकं स्वकर्मणा
तथा कुबेरलोकं च नरो याति स्वकर्मणा
याति नक्षत्रलोकं च सत्यलोकं स्वकर्मणा
स्वकर्मणा च पातालं ब्रह्मलोकं स्वकर्मणा
कर्मणा याति वैकुण्ठं गोलोकं च निरामयम्
कर्मणा कोटिकल्पायुः क्षीणायुश्च स्वकर्मणा
इत्येवं कथितं सर्वं मया तत्त्वं च सुन्दरि
श्रीनारायण उवाच तुष्टाव परया भक्त्या तमुवाच मनस्विनी
सावित्र्युवाच कर्म निर्मूलयन्त्येव केन वा साधवो जनाः
कर्मणां बीजरूपः कः को वा कर्म्मफलप्रदः
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च
किं विज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम्
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः
यम उवाच अवैदिकं तु यत्कर्म तदेवाशुभमेव च
अहैतुकी विष्णुसेवा सङ्कल्परहिता सताम्
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम्
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता 2.25.
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः
कर्म्मणो बीजरूपश्च सन्ततं तत्फलप्रदः
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत्सति
आत्मनः प्रतिबिम्बं च देही जीवः स एव च
पृथिवी वायुराकाशो जलं तेजस्तथैव च
कर्त्ता भोक्ता च देही च स्वात्मा भोजयिता सदा
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत्
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम्
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् 2.25.
अङ्गिनामङ्ग रूपं च प्रेरकं सर्वकर्मणाम्
सूर्य्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः