इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः
स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत्
नारायण उवाच ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्
उवाच सा तं राजानं प्रसन्ना सस्मिता सती
सावित्र्युवाच वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
साध्वी कन्याभिलाषं च करोति तव कामिनी
इत्युक्त्वा सा महादेवी ब्रह्मलोकं जगाम ह
राज्ञो धनाच्च सावित्र्या बभूव कमला कला
कालेन सा वर्द्धमाना बभूव च दिने दिने
सा वरं वरयामास द्युमत्सेनात्मजं तदा
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम्
स च संवत्सरेऽतीते सत्यवान्सत्यविक्रमः 2.24.
जगाम तत्र सावित्री तत्पश्चाद्दैवयोगतः
यमस्तज्जीवपुरुषं बद्ध्वाङ्गुष्ठसमं मुने
पश्चात्तां सुन्दरीं दृष्ट्वा यमः संयमिनीपतिः
यम उवाच यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज
गन्तुं मर्त्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम्
पूर्णश्च भर्त्तुस्ते कालः ह्यभवद्भारते सति
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम्
कर्मणा ब्राह्मणत्वं च मुक्तत्वं च स्वकर्मणा 2.24.
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं च कर्मणा
कर्मणा चैव शूद्रत्वमन्त्यजत्वं स्वकर्मणा
स्वकर्मणा च म्लेच्छत्वं लभते नात्र संशयः
स्वकर्मणा च शैलत्वं वृक्षत्वं च स्वकर्मणा
स्वकर्मणा क्षुद्रजन्तुः कृमित्वं च स्वकर्मणा
स्वकर्मणा राक्षसत्वं किन्नरत्वं स्वकर्मणा
स्वकर्मणा च प्रेतत्वं वेतालत्वं स्वकर्मणा
दैत्यत्वं दानवत्वं चाप्यसुरत्वं स्वकर्मणा