द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च
श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा विप्रजीवनरूपं च निबोध कथयामि ते
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा
ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम्
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे
विप्रपापेन्धदाहाय ज्वलदग्निशिखोपमे
कायेन मनसा वाचा यत्पापं कुरुते द्विजः
इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः
स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत्
नारायण उवाच ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्
उवाच सा तं राजानं प्रसन्ना सस्मिता सती
सावित्र्युवाच वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
साध्वी कन्याभिलाषं च करोति तव कामिनी
इत्युक्त्वा सा महादेवी ब्रह्मलोकं जगाम ह
राज्ञो धनाच्च सावित्र्या बभूव कमला कला
कालेन सा वर्द्धमाना बभूव च दिने दिने
सा वरं वरयामास द्युमत्सेनात्मजं तदा
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम्
स च संवत्सरेऽतीते सत्यवान्सत्यविक्रमः 2.24.
जगाम तत्र सावित्री तत्पश्चाद्दैवयोगतः
यमस्तज्जीवपुरुषं बद्ध्वाङ्गुष्ठसमं मुने
पश्चात्तां सुन्दरीं दृष्ट्वा यमः संयमिनीपतिः
यम उवाच यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज
गन्तुं मर्त्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम्
पूर्णश्च भर्त्तुस्ते कालः ह्यभवद्भारते सति
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते