वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत्
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् 2.23.
ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्द्धनि
दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम्
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम्
वसनं भूषणं माल्यं गन्धमाचमनीयकम्
दारुसारविकारं च हेमादिनिर्मितं च वा
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत्
पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम्
सुगन्धि धात्रीतैलं च देहसौन्दर्य्यकारणम्
मलयाचलसम्भूतं देहशोभाविवर्द्धनम्
गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः 2.23.
जगतां दर्शनीयं च दर्शनं दीप्तिकारणम्
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम्
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
सुशीतलं वासितं च पिपासानाशकारणम्
देहशोभास्वरूपं च सभाशोभाविवर्द्धनम्
काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा
नानापुष्पलताकीर्णं बहुभासा समन्वितम्
सर्वमङ्गलरूपश्च सर्व मङ्गलदो वरः
शुद्धं शुद्धिप्रदं चैव शुद्धानां प्रीतिदं महत्
रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् 2.23.
नानावृक्षसमुद्भूतं नानारूपसमन्वितम्
सिन्दूरं च वरं रम्यं भालशोभाविवर्द्धनम्
विशुद्धग्रंथिसंयुक्तं पुण्यसूत्रविनिर्मितम्