एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः
पराशर उवाच दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च
शतधा च जपाच्चैवं पापं मासार्जितं परम्
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः
आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः
तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे
कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये 2.23.
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः
अथवा पञ्चगव्येन स्नाता माला च संस्कृता
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु
नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम्
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् 2.23.
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः
हरेरनैवेद्यभोजी धावको वृषवाहकः
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी
सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः
इत्युक्त्वा च मुनिश्रेष्ठः सर्व पूजाविधिक्रमम्
दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः
नारद उवाच स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ।।2.23.
नृपः केन विधानेन संपूज्य श्रुतिमातरम्
नारायण उवाच व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्