नारायण उवाच द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः
तथा चाश्वपतिः पूर्वं पूजयामास भारते
नारद उवाच सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि
नारायण उवाच वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम्
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै 2.23.
तपश्चचार तत्रैव संयतः शतवत्सरम्
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम्
एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः
पराशर उवाच दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च
शतधा च जपाच्चैवं पापं मासार्जितं परम्
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः
आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः
तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे
कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये 2.23.
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः
अथवा पञ्चगव्येन स्नाता माला च संस्कृता
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु
नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम्
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् 2.23.
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः
हरेरनैवेद्यभोजी धावको वृषवाहकः
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः