रुदतीमभिमानेन मानिनीं मानपूजिताम्
भारत्याज्ञां गृहीत्वा च स्वालयं च ययौ हरिः
वरं विष्णुर्ददौ तस्यै विश्वपूज्या भवेति च
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह 2.22.
लक्ष्मीर्गङ्गा सस्मिता तां समाश्लिष्य च नारद
वृन्दां वृन्दावनीं विश्वपावनींविश्वपूजिताम्
एतन्नामाष्टकं चैत त्स्तोत्रं नामार्थसंयुतम्
कार्तिकीपूर्णिमायां च तुलस्या जन्म मङ्गलम्
तस्यां यः पूजयेत्तां च भक्त्या च विश्वपावनीम्
कार्त्तिके तुलसीपत्रं विष्णवे यो ददाति च
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम्
रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
इप्येवं कथितं स्तोत्रं ध्यानपूजाविधिं शृणु
यद्वक्ष्ये पूजयेत्तां च भक्त्या चावाहनं विना 2.22.
तुलसीं पुष्पसारां च सतीं पूज्यां मनोहराम्
पुष्पेषु तुलनाप्यस्या नासीद्देवीषु वा मुने
शिरोधार्य्या च सर्वेषामीप्सितां विश्वपावनीम्
इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेद्बुधः
नारद उवाच यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि
पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः
नारायण उवाच द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः
तथा चाश्वपतिः पूर्वं पूजयामास भारते
नारद उवाच सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि
नारायण उवाच वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम्
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै 2.23.
तपश्चचार तत्रैव संयतः शतवत्सरम्
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम्