सर्वसिद्धेश्वरी देवी ज्ञानिनी सिद्धयोगिनी
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम्
तत्र गत्वा च स्नात्वा च तुलस्या तुलसीं सतीम्
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् 2.22.
श्रीं ह्रीं क्लीं ऐं वृन्दावन्यै स्वाहा पूजयेच्च विधानेन सर्वसिद्धिं लभेन्नरः
घृतदीपेन धूपेन सिन्दुरचन्दनेन च
हरिस्तोत्रेण तुष्टा सा चाविर्भूय महीरुहात्
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः
नारद उवाच तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि
नारायण उवाच हरिः संपूज्य तुष्टाव तुलसीं विरहातुरः
श्रीभगवानुवाच विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजा म्यहम्
पुरा बभूव या देवी ह्यादौ वृन्दावने वने
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् 2.22.
असंख्यानि च विश्वानि पवित्राणि यया सदा
देवा न तुष्टाः पुष्पाणां समूहेन यया विना
विश्वे यत्प्राप्तिमात्रेण भक्त्याऽऽनन्दो भवेद्ध्रुवम्
यस्या देव्या स्तुला नास्ति विश्वेषु निखिलेषु च
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती
इत्येवं स्तवनं कृत्वा तत्र तस्थौ रमापतिः
रुदतीमभिमानेन मानिनीं मानपूजिताम्
भारत्याज्ञां गृहीत्वा च स्वालयं च ययौ हरिः
वरं विष्णुर्ददौ तस्यै विश्वपूज्या भवेति च
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह 2.22.
लक्ष्मीर्गङ्गा सस्मिता तां समाश्लिष्य च नारद
वृन्दां वृन्दावनीं विश्वपावनींविश्वपूजिताम्
एतन्नामाष्टकं चैत त्स्तोत्रं नामार्थसंयुतम्
कार्तिकीपूर्णिमायां च तुलस्या जन्म मङ्गलम्
तस्यां यः पूजयेत्तां च भक्त्या च विश्वपावनीम्
कार्त्तिके तुलसीपत्रं विष्णवे यो ददाति च