निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः
शालग्रामशिलां स्पृष्ट्वा स्वीकारं यो न पालयेत्
तुलसीपत्र विच्छेदं शालग्रामे करोति यः
तुलसीपत्रविच्छेदं शंखे यो हि करोति च
शालग्रामं च तुलसीं शंखमेकत्र एव च
सकृदेव हि यो यस्यां वीर्य्याधानं करोति यः
त्वं प्रिया शंखचूडस्य चैकमन्वन्तरावधि
इत्युक्त्वा श्रीहरिस्तां च विरराम च सादरम् 2.21.
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद
सद्यस्तद्देहजाता च बभूव गण्डकी नदी
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्धरेरिति
नारद उवाच तस्याः पूजाविधानं च स्तोत्रं किं न श्रुतं मया
केन पूज्या स्तुता केन पुरा प्रथमतो मुने
सूत उवाच कथां कथितुमारेभे पुण्यरूपां पुरातनीम्
नारायण उवाच रमासमां तां सौभाग्यां चकार गौरवेण च
सेहे लक्ष्मीश्च गंगा च तस्याश्च नवसंगमम्
सा तां जघान कलहे मानिनी हरिसन्निधौ
सर्वसिद्धेश्वरी देवी ज्ञानिनी सिद्धयोगिनी
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम्
तत्र गत्वा च स्नात्वा च तुलस्या तुलसीं सतीम्
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् 2.22.
श्रीं ह्रीं क्लीं ऐं वृन्दावन्यै स्वाहा पूजयेच्च विधानेन सर्वसिद्धिं लभेन्नरः
घृतदीपेन धूपेन सिन्दुरचन्दनेन च
हरिस्तोत्रेण तुष्टा सा चाविर्भूय महीरुहात्
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः
नारद उवाच तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि