द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम्
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम्
अतिक्षुद्रं द्विचक्रं च वनमा लाविभूषितम्
स्थूलं च वर्तुलाकारं रहितं वनमालया
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम्
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम्
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम्
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम्
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् 2.21.
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम्
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम्
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम्
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम्
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम्
शालग्रामशिला यत्र तत्र सन्निहितो हरिः
यानि कानि च पापानि ब्रह्महत्यादिकानि च
छत्राकारं भवेद्राज्यं वर्तुले च महाश्रियः
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च 2.21.
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
सर्वदानेषु यत्पुण्यं प्रादक्षिण्ये भुवो यथा
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च
पाठे चतुर्णां वेदानां तपसां करणे सति
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखि लानि च
तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम्
यानि कानि च पापानि ब्रह्महत्यादिकानि च
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा 2.21.
शालग्रामशिला तोयं मृत्युकाल च यो लभेत्