आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति
भूगतं तोयपतितं यद्दत्तं विष्णवे सति
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ।। कृष्णेन सार्द्धं रहसि नित्यं क्रीडां करिष्यति
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ
अहं च शैलरूपी च गण्डकीतीरसन्निधौ
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् 2.21.
एकद्वारे चतुश्चक्रं नवीननीरदोपमम्
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम्
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम्
अतिक्षुद्रं द्विचक्रं च वनमा लाविभूषितम्
स्थूलं च वर्तुलाकारं रहितं वनमालया
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम्
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम्
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम्
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम्
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् 2.21.
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम्
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम्
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम्
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम्
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम्
शालग्रामशिला यत्र तत्र सन्निहितो हरिः
यानि कानि च पापानि ब्रह्महत्यादिकानि च
छत्राकारं भवेद्राज्यं वर्तुले च महाश्रियः
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च 2.21.
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम्