तं दृष्ट्वा कामिनी कामान्मूर्छां संप्राप लीलया
हे नाथ ते दया नास्ति पाषाण सदृशस्य च
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो
ये वदन्ति दयासिन्धुं त्वां ते भ्रान्ता न संशयः
दुर्वृत्तस्त्वं च सर्वज्ञो न जानासि परव्यथाम्
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः
तस्याश्च करुणां दृष्ट्वा करुणामयसागरः
श्रीभगवानुवाच त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् 2.21.
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम सन्निधौ
गोलोके विरजातीरे रासे वृन्दावने भुवि
माधवीकेतकीकुन्दमल्लिकामालतीवने
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे
तत्रैव सर्वदेवानां समधिष्ठानमेव च
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः 2.21.
सुधाघटसहस्रेण सा तुष्टिर्न भवेद्धरेः
गवामयुतदानेन यत्फलं लभते नरः
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत्
नित्यं यस्तुलसी तोयं भुङ्क्ते भक्त्या च यो नरः
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति
करोति मिथ्याशपथं तुलस्या यो हि मानवः
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् 2.21.
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे