निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् 1.7.
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम्
तदधः सप्त पातालान्निर्ममे जगदीश्वरः
अतलं वितलं चैव सुतलं च तलातलम्
सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः
एवञ्चासंख्यब्रह्माण्डं सर्वं कृत्रिममेव च
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः
ब्राह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः
संख्यातुमीश्वरः शक्तो न संख्यातुं तथापि सः
कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च
वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः 1.7.
सौतिरुवाच चकार वीर्य्याधानं च कामुक्यां कामुको यथा
सा दिव्यं शतवर्षं च धृत्वा गर्भं सुदुस्सहम्
विविधाञ्शास्त्रसंघांश्च तर्कव्याकरणादिकान्
षड्रागान्सुन्दरांश्चैव नानाताल समन्वितान्
वर्षमासमृतुं चैव तिथिं दण्डक्षणादिकम्
पुष्टिं च देवसेनां च मेधां च विजयां जयाम्
देवसेनां महाषष्ठीं कार्त्तिकेयप्रियां सतीम्
ब्राह्मं पाद्मं च वाराहं कल्पत्रयमिदं स्मृतम्
चतुर्विधं च प्रलयं कालं वै मृत्युकन्यकाम्
अथ धातुः पृष्ठदेशादधर्मः समजायत 1.8.
नाभिदेशाद्विश्वकर्मा जातो वै शिल्पिनां गुरुः
अथ धातुश्च मनस आविर्भूताः कुमारकाः
सनकश्च सनन्दश्च तृतीयश्च सनातनः
आविर्बभूव मुखतः कुमारः कनकप्रभः
क्षत्त्रियाणां बीजरूपो नाम्ना स्वायम्भुवो मनुः
सस्त्रीकश्च मनुस्तस्थौ धात्राज्ञा परिपालकः