शङ्करस्तेन शूलेन दानवस्यास्थिजालकम्
प्रेम्णा च प्रेरयामास लवणोदे च सागरे
नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने
तीर्थतोयस्वरूपं च पवित्रं शंकरं विना
स स्नातः सर्वतीर्थेषु यः स्नातः शंखवारिणा
तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् भीता रुष्टा याति लक्ष्मीः स्थलमन्यं स्थलात्ततः ।।2.20.
शिवश्च दानवं हत्वा शिवलोकं जगाम सः
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम्
नारद उवाच तुलस्या केन रूपेण तन्मे व्याख्यातुमर्हसि
नारायण उवाच शंखचूडस्य रूपेण रेमे तद्रामया सह
शंखचूडस्य कवचं गृहीत्वा मायया हरिः
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम्
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ
दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता
रत्नसिंहा सने रम्ये वासयामास कामुकी
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः 2.21.
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता
तुलस्युवाच कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः
श्रीहरिरुवाच नाशो बभूव सर्वेषां दानवानां च कामिनि
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः
रेमे रमापतिस्तत्र रामया सह नारद सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह
तुलस्युवाच
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् नवीननीरद श्यामं शरत्पङ्कजलोचनम् ।। 2.21.
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम्