किरणावलिसंयुक्तं प्रलयाग्निशिखोपमम्
तेजसा चक्रतुल्यं च सर्वशस्त्रविघातकम्
धनुस्सहस्रं दैर्घ्येण विस्तृत्या शतहस्तकम्
संहर्तुं सर्वविध्यण्डमेकदा दैवलीलया
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम्
शूलं च भ्रमणं कृत्वा न्यपतद्दानवोपरि 2.20.
राजा धृत्वा दिव्यरूपं बालकं गोपवेषकम्
नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम्
गत्वा ननाम शिरसा राधामाधवयोर्मुने सुदामानं तौ च दृष्ट्वा प्रसन्न वदनेक्षणौ
तदा च चक्रतुः क्रोडे स्नेहेन परिसंप्लुतौ
शङ्करस्तेन शूलेन दानवस्यास्थिजालकम्
प्रेम्णा च प्रेरयामास लवणोदे च सागरे
नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने
तीर्थतोयस्वरूपं च पवित्रं शंकरं विना
स स्नातः सर्वतीर्थेषु यः स्नातः शंखवारिणा
तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् भीता रुष्टा याति लक्ष्मीः स्थलमन्यं स्थलात्ततः ।।2.20.
शिवश्च दानवं हत्वा शिवलोकं जगाम सः
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम्
नारद उवाच तुलस्या केन रूपेण तन्मे व्याख्यातुमर्हसि
नारायण उवाच शंखचूडस्य रूपेण रेमे तद्रामया सह
शंखचूडस्य कवचं गृहीत्वा मायया हरिः
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम्
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ
दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता
रत्नसिंहा सने रम्ये वासयामास कामुकी
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः 2.21.
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता