तावदस्य जरा मृत्युर्नास्तीति ब्रह्मणो वरः
शतलक्षं दानवानामग्रहील्लीलया क्रुधा दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः 2.19.
दिव्यास्त्रैर्दानवेन्द्रोऽयं शतखण्डं चकार सः
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः वेगेन मुष्टिना काली कोपयुक्ता भयंकरी
बभञ्जाथ रथं तस्य चाहनत्सारथिं सती
वामहस्तेन जग्राह शंखचूडश्च लीलया
बभ्राम व्यथया दैत्यः क्षणं मूर्च्छामवाप ह
न चक्रे बाहुयुद्धं स देव्या सह ननाम ताम्
नास्त्रं चिक्षेप तां भक्त्या मातृबुद्ध्या च वैष्णवः
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः
रत्नेन्द्रसारखचितं विमानाग्र्यं मनोहरम् । ।। 2.19.
क्षतजं दानवानां च मांसं च विपुलं क्षुधा
उवाच रणवृत्तान्तं पौर्वापर्य्यं यथाक्रमम्
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना
संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः
नारायण उवाच ययौ स्वयं च समरं स्वगणैः सह नारद
शंखचूडः शिवं दृष्ट्वा विमानादवरुह्य च
तं प्रणम्य च वेगेन विमानं ह्यारुरोह सः
शिवदानवयोर्युद्धं पूर्णमब्दं बभूव ह
न्यस्तशस्त्रश्च भगवान्न्यस्तशस्त्रश्च दानवः
दानवानां च शतकमुद्वृत्तं च बभूव ह
ततो विष्णुर्महामायो वृद्धब्राह्मणरूपधृक्
वृद्धब्राह्मण उवाच त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम्
निराहाराय वृद्धाय तृषितायातुराय च
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः 2.20.
तच्छ्रुत्वा दानवश्रेष्ठो ददौ कवचमुत्तमम्
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति
अथ शम्भुर्हरेः शूलं दानवार्थं समग्रहीत्
नारायणाधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम्