कलविङ्केन वरुणश्चञ्चलेन समीरणः
जयन्तो रत्नसारेण वसवो वर्चसां गणैः
धनुर्द्धरेण धर्मश्च मण्डूकाक्षेण मङ्गलः
विश्वेन च पलाशेन चादित्या युयुधुः परम् 2.19.
महामारी च युयुधे चोग्रदण्डादिभिः सह
युयुधुश्च महद्युद्धे प्रलये च भयङ्करे
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने
उवास शंखचूडश्च रत्नभूषणभूषितः
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविक्षताः
बलं च स्वगणानां वै वर्द्धयामास तेजसा
अक्षौहिणीनां शतकं समरे स जघान ह
पपौ रक्तं दानवानां क्रुद्धा सा शतखर्परम्
स्कन्दस्य शरजालेन दानवाः क्षतविक्षताः 2.19.
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कनः
काली जगाम समरमरक्षत्कार्त्तिकं शिवः
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः
सा च गत्वा च संग्रामं सिंहनादं चकार ह
अट्टाट्टहासमशिवं चकार च पुनः पुनः
उग्रदंष्ट्रा चोग्रचण्डा कौट्टरी च पपौ मधु
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजिं समाययौ
काली चिक्षेप चाग्नेयं प्रलयाग्निशिखोपमम्
चिक्षेप वारुणं सा च तत्तीव्रं महदद्भुतम्
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् 2.19.
नारायणास्त्रं सा देवी चिक्षिपे मन्त्रपूर्वकम्
ऊर्ध्वं जगाम तच्छस्त्रं प्रलयाग्निशिखोपमम् ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम्
ब्रह्मास्त्रेण महाराज निर्वाणं च चकार ह
राजा दिव्यास्त्रजालेन निर्वाणं च चकार ह
राजा तीक्ष्णास्त्रजालेन शतखण्डं चकार ह
निक्षेप्तुं सा निषिद्धा च वाग्बभूवाशरीरिणी
यावदस्त्येव कण्ठेऽस्य कवचं हि हरेरिति