देवाः प्रदुद्रुवुश्चान्ये सर्वे नन्दीश्वरादयः
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा
नृपस्य शरवृष्ट्या च प्रच्छन्नः शिवनन्दनः । नीरदेन च सान्द्रेण संच्छन्नो भास्करो यथा
धनुस्स्कन्दस्य चिच्छेद दुर्वहं च भयङ्करम्
मयूरं जर्ज्जरीभूतं दिव्यास्त्रेण चकार सः 2.19.
क्षणं मूर्छां च संप्राप्य चेतनामुपलभ्य सः
रत्नेन्द्रसारखचितं यानमारुह्य चाग्निभूः
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा
आग्नेयं वारुणास्त्रेण वारयामास वै गुहः
सवाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम्
मूर्च्छां संप्राप्य राजोपलभ्य वै चेतनां पुनः
चकार शरजालं च मायया मायिनां वरः
जग्राह शक्तिमव्यर्थां शतसूर्य्यसमप्रभाम्
चिक्षेप तां च कोपेन महावेगेन कार्त्तिके
मूर्च्छां संप्राप शक्त्या च कार्त्तिकेयो महाबलः 2.19.
शिवस्तं दर्शनादेव जीवयामास लीलया
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः
स्वयं महेन्द्रो युयुधे सार्द्धं च वृषपर्वणा
दम्भेन सह चन्द्रश्च चकार समरं परम्
कुबेरः कालकेयेन विश्वकर्मा मयेन च
कलविङ्केन वरुणश्चञ्चलेन समीरणः
जयन्तो रत्नसारेण वसवो वर्चसां गणैः
धनुर्द्धरेण धर्मश्च मण्डूकाक्षेण मङ्गलः
विश्वेन च पलाशेन चादित्या युयुधुः परम् 2.19.
महामारी च युयुधे चोग्रदण्डादिभिः सह
युयुधुश्च महद्युद्धे प्रलये च भयङ्करे
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने
उवास शंखचूडश्च रत्नभूषणभूषितः
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविक्षताः
बलं च स्वगणानां वै वर्द्धयामास तेजसा