अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम्
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः 2.18.
करोति सततं यो हि तन्नामगुणकीर्त्तनम्
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे
कालाग्निरुद्रं संहारे नियुज्य विषये नृप
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः
इत्युक्त्वा स च सर्वेशः सर्वज्ञः सर्वभावनः
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः
शंखचूड उवाच तथाऽपि किञ्चिद्यत्सत्यं श्रूयतां मन्निवेदनम्
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम्
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः 2.18.
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः
क्रीडाभाण्डमिदं विश्वं कृष्णस्य परमात्मनः
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा
तत्रावयोर्विरोधे च गमनं निष्फलं तव
जायते महती लज्जा स्पर्द्धाऽस्माभिः सहाधुना
शंखचूडवचः श्रुत्वा प्रहस्याह त्रिलोचनः
श्रीमहादेव उवाच का लज्जा महती राजन्नकीर्तिर्वा पराजये
युद्धमादौ हरेरेव मधुना कैटभेन च
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता
सर्वेश्वर्य्याः सर्वमातुः प्रकृत्याश्च बभूव ह 2.18.
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः
का लज्जा महती राजन्मम युद्धे त्वया सह
देहि राज्यं च देवानां वाग्व्यये किं प्रयोजनम्
इत्युक्त्वा शंकरस्तत्र विरराम च नारद
नारायण उवाच समारुरोह यानं च स्वामात्यैः सह सत्वरः
बभूवुस्ते च संक्षुब्धाः स्कन्दशक्त्याऽर्दितास्तदा
स्कन्दस्योपरि तत्रैव समरे च भयङ्करे
दानवानां क्षयकरं यथा प्राकृतिकं लयम्
नृपस्य शरवृष्टिश्च घनवृष्टिर्यथा तथा