अधुना राधिकाशापाद्भारते दानवेश्वरः
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि 2.18.
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे
सुखं स्वराज्ये त्वं तिष्ठ देवास्सन्तु स्वके पदे
यानि कानि च पापानि ब्रह्महत्यादिकानि च
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति
ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम्
परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा
एकभागः कलेः पूर्वे तद्ध्रासश्च क्रमेण च
यादृक्तेजो रवेर्ग्रीष्मे न तादृक्शिशिरे पुनः 2.18.
उदयं याति कालेन बाल्यतां च क्रमेण च
दिने प्रच्छन्नतां याति काले वै दुर्दिने घने
परिपूर्णतमश्चन्द्रः पूर्णिमायां च यादृशः।। । तादृशो न भवेन्नित्यं क्षयं याति दिनेदिने
पुनः स पुष्टतां याति परकुह्वा दिनेदिने
राहुग्रस्ते दिने म्लानो दुर्दिने निबिडे घने
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना
काले जले निमग्ना सा तिरोभूता विपद्गता
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च
अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम्
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः 2.18.
करोति सततं यो हि तन्नामगुणकीर्त्तनम्
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे
कालाग्निरुद्रं संहारे नियुज्य विषये नृप
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः
इत्युक्त्वा स च सर्वेशः सर्वज्ञः सर्वभावनः
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः
शंखचूड उवाच तथाऽपि किञ्चिद्यत्सत्यं श्रूयतां मन्निवेदनम्
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम्