लवणोदप्रिया भार्य्या शश्वत्सौभाग्यसंयुता
शरावतीमिश्रिता च निर्गता सा हिमालयात् 2.18.
तत्र गत्वा शंखचूडो लुलोके चन्द्रशेखरम्
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम्
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम्
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम्
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम्
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम्
विश्वम्भरं विश्ववरं विश्वसंहारकारणम्
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम्
सर्वैः सार्द्धं भक्तियुक्तः शिरसा प्रणनाम सः
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः 2.18.
परस्परं च सम्भाषां ते चकुस्तत्र साम्प्रतम्
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह
श्रीमहादेव उवाच मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः
तास्वेका च दनुः साध्वी तत्सौभाग्येन वर्द्धिता
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम्
तदा त्वां तनयं प्राप परं कृष्णपरायणम्
अधुना राधिकाशापाद्भारते दानवेश्वरः
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि 2.18.
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे
सुखं स्वराज्ये त्वं तिष्ठ देवास्सन्तु स्वके पदे
यानि कानि च पापानि ब्रह्महत्यादिकानि च
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति
ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम्
परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा