क्षणं केलिनियुक्तौ च रसभावसमन्वितौ
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ 2.17.
नारायण उवाच ब्राह्मे मुहूर्त्ते चोत्थाय पुष्पतल्पान्मनोहरात्
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा
चकाराह्निकमावश्यमभीष्टगुरुवन्दनम्
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम्
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम्
गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम्
कोशागारसहस्रं च नगराणां त्रिलक्षकम्
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च
प्रजानुचरसंघं च कोशौघं वाहनादिकम्
भृत्यद्वारा क्रमेणैव स चक्रे सैन्यसंचयम् ।। 2.18.
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः
कृता सेनाऽपरिमिता दानवेन्द्रेण नारद
महारथः स विज्ञेयो रथिनां प्रवरो रणे
त्रिंशदक्षौहिणीवाद्यभाण्डौघं च चकार सः
रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः
कपिलस्य तपस्थानं पुण्यक्षेत्रं च भारते
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे शाश्वती जलपूर्णा च पुष्पभद्रानदी शुभा
लवणोदप्रिया भार्य्या शश्वत्सौभाग्यसंयुता
शरावतीमिश्रिता च निर्गता सा हिमालयात् 2.18.
तत्र गत्वा शंखचूडो लुलोके चन्द्रशेखरम्
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम्
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम्
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम्
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम्
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम्
विश्वम्भरं विश्ववरं विश्वसंहारकारणम्
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम्