दिव्यं वर्षसहस्रं च विहरिष्यसि शम्भुना
काले सर्वेषु विश्वेषु महापूजासु पूजिते ।। 1.6.
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता
मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि
भविष्यन्ति महान्तश्च तवैव परिचारकाः
ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते
इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम्
चकार विधिना ध्यानं भक्तं भक्तानुकम्पया
सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम्
त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः
दत्त्वा धर्माय तं मन्त्रं सिद्धिज्ञानं तदेव च
एवं कुबेरादिभ्यस्तु दत्त्वा मन्त्रादिकं परम् 1.6.
श्रीभगवानुवाच सृष्टिं कुरु महाभाग विधे नानाविधां पराम्
इत्युक्त्वा ब्रह्मणे कृष्णो ददौ मालां मनोरमाम्
सौतिरुवाच ससृजे पृथिवीमादौ मधुकैटभमेदसा
ससृजे पर्वतानष्टौ प्रधानान्सुमनोहरान्
सुमेरुं चैव कैलासं मलयं च हिमालयम्
समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान्
सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते
निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् 1.7.
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम्
तदधः सप्त पातालान्निर्ममे जगदीश्वरः
अतलं वितलं चैव सुतलं च तलातलम्
सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः
एवञ्चासंख्यब्रह्माण्डं सर्वं कृत्रिममेव च
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः