कृत्वा वक्षसि कान्तां तां रुदन्तीमतिदुःखिताम् ।। कृशोदरीं निराहारां निमग्नां शोकसागरे
पुनस्तां बोधयामास दिव्यज्ञानेन बोधवित् 2.17.
स च तस्यै ददौ तच्च सर्वशोकहरं परम्
क्रीडां चकार हर्षेण सर्वं मत्वाऽतिनश्वरम्
पुलकाङ्कितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने
एकांगौ च तथा तौ द्वौ चार्द्धनारीश्वरौ यथा
प्राणाधिकां च तां मेने राजा प्राणाधिकेश्वरीम्
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ कथां मनोहरां दिव्यां हसन्तौ च क्षणं पुनः
भुक्तवन्तौ च ताम्बूलं प्रदतं च परस्परम्
परस्परं सेवितौ च सुप्रीत्या श्वेतचामरैः
क्षणं केलिनियुक्तौ च रसभावसमन्वितौ
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ 2.17.
नारायण उवाच ब्राह्मे मुहूर्त्ते चोत्थाय पुष्पतल्पान्मनोहरात्
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा
चकाराह्निकमावश्यमभीष्टगुरुवन्दनम्
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम्
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम्
गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम्
कोशागारसहस्रं च नगराणां त्रिलक्षकम्
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च
प्रजानुचरसंघं च कोशौघं वाहनादिकम्
भृत्यद्वारा क्रमेणैव स चक्रे सैन्यसंचयम् ।। 2.18.
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः
कृता सेनाऽपरिमिता दानवेन्द्रेण नारद
महारथः स विज्ञेयो रथिनां प्रवरो रणे
त्रिंशदक्षौहिणीवाद्यभाण्डौघं च चकार सः
रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः
कपिलस्य तपस्थानं पुण्यक्षेत्रं च भारते
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे शाश्वती जलपूर्णा च पुष्पभद्रानदी शुभा