अथ दूते गते तत्र शंखचूडः प्रतापवान्
रणवार्त्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका 2.17.
तुलस्युवाच हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम्
भुंक्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वांछितम्
आन्दोलयन्ति प्राणा मे मनो दग्धं च सन्ततम्
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः
शङ्खचूड उवाच शुभं हर्षं सुखं दुःखं भयं शोकममंगलम्
काले भवन्ति वृक्षाश्च शाखावन्तश्च कालतः
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः
भवन्ति काले भूतानि काले कालं प्रयान्ति च
स्रष्टा च काले सृजति पाता पाति च कालतः
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः।। स्रष्टा पाता च संहर्त्ता स कृत्स्नांशेन सर्वदा।2.17.
काले स एव प्रकृतिं निर्माय स्वेच्छया प्रभुः
आब्रह्मस्तंबपर्य्यन्तं सर्वं कृत्रिममेव च
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम्
जलं जलेन सृजति जलं पाति जलेन यः
यस्याज्ञया वाति वातः शीघ्रगामी च सन्ततम्
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु
मृत्योर्मूलं कालमूलं यमस्य च यमं परम्
संहर्त्तारं च संहर्तुस्तं कृष्णं शरणं व्रज
अहं को वा त्वं च का वा विधिना योजितः पुरा
अज्ञानी कातरः शोके विपत्तौ च न पण्डितः ।। 2.17.
नारायणं तं सर्वेशं कान्तं प्राप्स्यसि निश्चितम्
मया त्वं तपसा लब्धा ब्रह्मणश्च वरेण हि
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि
तत्र द्रक्ष्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम्
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।। त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम्