दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम्
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च 2.17.
स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम्
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम्
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः
कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा
वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः
कुबेरश्च यमश्चैव जयन्तो नलकूबरः
धर्मश्च शनिरीशानः कामदेवश्च वीर्य्यवान्
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना 2.17.
अभयं ददती भक्तमभया सा भयं रिपुम्
खर्परं वर्तुलाकारं गम्भीरं योजनायतम्
शंखं चक्रं गदां पद्मं शरांश्चापं भयंकरम्
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम्
पार्जन्यं वै पाशुपतं जृम्भणास्त्रं च पार्वतम् नानाविधान्यायुधानि दिव्यास्त्रशतकं परम्
आगत्य तत्र तस्थौ सा योगिनीनां त्रिकोटिभिः
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः
ताभिश्चैव सह स्कन्दो नत्वा वै चन्द्रशेखरम्
अथ दूते गते तत्र शंखचूडः प्रतापवान्
रणवार्त्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका 2.17.
तुलस्युवाच हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम्
भुंक्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वांछितम्
आन्दोलयन्ति प्राणा मे मनो दग्धं च सन्ततम्
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः
शङ्खचूड उवाच शुभं हर्षं सुखं दुःखं भयं शोकममंगलम्
काले भवन्ति वृक्षाश्च शाखावन्तश्च कालतः
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः
भवन्ति काले भूतानि काले कालं प्रयान्ति च