भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम्
सुदुर्गमं च शत्रूणामन्येषां सुगमं सुखम् 2.17.
राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः
मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः
रत्नचित्रकपाटाद्यैः सद्रत्नकलशान्वितैः
परितो रक्षितं शश्वद्दानवैः शतकोटिभिः
सुन्दरैश्च सुवेषैश्च नानालङ्कारभूषितैः
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम्
कथयामास वृत्तान्तं जगाम तदनुज्ञया
न कैश्चिद्वारितो दूतो दूतरूपेण तस्य च
रणस्य सर्ववृत्तान्तं विज्ञापयितुमीश्वरम्
स गत्वा शंखचूडं तं ददर्श सुमनोहरम् 2.17.
मणीन्द्रखचितं चित्रं रत्नदण्डसमन्वितम्
भृत्येन हस्तविधृतं स्वर्णच्छत्रं मनोहरम्
सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम्
दानवेन्द्रैः परिवृतं सुवेषं च त्रिकोटिभिः
एवंभूतं च तं दृष्ट्वा पुष्पदन्तः सविस्मयः
पुष्पदन्त उवाच यदुक्तं शङ्करेणैव तद्ब्रवीमि निशामय
राज्यं देहि च देवानामधिकारं च साम्प्रतम्
दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम्
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च 2.17.
स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम्
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम्
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः
कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा
वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः
कुबेरश्च यमश्चैव जयन्तो नलकूबरः